श्रीशिवसूत्राणि

१ शाम्भवोपाय १-२२

२ शाक्तोपाय १-१०

३ आणवोपाय १-४५

१ शाम्भवोपाय

चैतन्यमात्मा ॥ १॥

चैतन्यम् आत्मा

ज्ञानं बन्धः ॥ २॥

ज्ञानम् बन्धः

योनिवर्गः कलाशरीरम् ॥ ३॥

योनिवर्गः कलाशरीरम्

ज्ञानाधिष्ठानं मातृका ॥ ४॥

ज्ञान अधिष्ठानम् मातृका

उद्यमो भैरवः ॥ ५॥

उद्यमः भैरवः

शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥

शक्तिचक्र सन्धाने विश्व संहारः

जाग्रत्स्वप्नसुषुप्तिभेदे तुर्याभोग(संवित्)सम्भवः ॥ ७॥

जाग्रत् स्वप्न सुषुप्ति भेदे तुर्य आभोग(संवित्)सम्भवः

ज्ञानं जाग्रत् ॥ ८॥

ज्ञानम् जाग्रत्

स्वप्नो विकल्पाः ॥ ९॥

स्वप्नः विकल्पाः

अविवेको माया सौषुप्तम् ॥ १०॥

अविवेकः माया सौषुप्तम्

त्रितयभोक्ता वीरेशः ॥ ११॥

त्रितय भोक्ता वीरेशः

विस्मयो योगभूमिकाः ॥ १२॥

विस्मयः योग भूमिकाः

इच्छाशक्तिरुमा कुमारी ॥ १३॥

इच्छाशक्तिः उमा कुमारी

दृश्यं शरीरम् ॥ १४॥

दृश्यम् शरीरम्

हृदये चित्तसङ्घटाद्दृश्यस्वापदर्शनम् ॥ १५॥

हृदये चित्त सङ्घटात् दृश्य स्वाप दर्शनम्

शुद्धतत्त्वसन्धानाद्वापशौशक्तिः ॥ १६॥

शुद्धतत्त्व सन्धानात् वा अपशुशक्तिः

वितर्क आत्मज्ञानम् ॥ १७॥

वितर्कः आत्मज्ञानम्

लोकानन्दः समाधिसुखम् ॥ १८॥

लोकानन्दः समाधिसुखम्

शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९॥

शक्ति सन्धाने शरीर उत्पत्तिः

भूतसन्धान-भूतपृथक्त्व-विश्वसङ्घट्टाः ॥ २०॥

भूतसन्धान भूतपृथक्त्व विश्वसङ्घट्टाः

शुद्धविद्योदयाच्च्क्रेशत्वसिद्धिः ॥ २१॥

शुद्धविद्या उदयात् चक्रेशत्व सिद्धिः

महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२॥

महाह्रद अनुसन्धानात् मन्त्रवीर्य अनुभवः

२ शाक्तोपाय

चित्तं मन्त्रः ॥ १॥

चित्तम् मन्त्रः

प्रयत्नः साधकः ॥ २॥

प्रयत्नः साधकः

विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३॥

विद्या शरीर सत्ता मन्त्ररहस्यम्

गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४॥

गर्भे चित्त विकासः अविशिष्ट विद्या स्वप्नः

विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ ५॥

विद्या समुत्थाने स्वाभाविके खेचरी शिवावस्था

गुरुरुपायः ॥ ६॥

गुरुः उपायः

मातृकाचक्रसम्बोधः ॥ ७॥

मातृका चक्र सम्बोधः

शरीरं हविः ॥ ८॥

शरीरम् हविः

ज्ञानमन्नम् ॥ ९॥

ज्ञानम् अन्नम्

विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १०॥

विद्या संहरे तत् उत्थ स्वप्न दर्शनम्

३ आणवोपाय

आत्मा चित्तम् ॥ १॥

आत्मा चित्तम्

ज्ञानं बन्धः ॥ २॥

ज्ञानम् बन्धः

कलादिनां तत्त्वानामविवेको माया ॥ ३॥

कला आदिनाम् तत्त्वानाम् अविवेकः माया

शरीरं संहारः कलानाम् ॥ ४॥

शरीरम् संहारः कलानाम्

नाडीसंहार-भूतजय-भूतकैवल्य-भूतपृथक्त्वानि ॥ ५॥

नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि

मोहावरणात्सिद्धिः ॥ ६॥

मोह आवरणात् सिद्धिः

मोहजयादनन्ताभोगात्शजविद्याजयः ॥ ७॥

मोह जयात् अनन्त आभोगात् सहजविद्या जयः

जाग्रद्द्वितीयकरः ॥ ८॥

जाग्रत् द्वितीय करः

नर्तक आत्मा ॥ ९॥

नर्तकः आत्मा

रङ्गोऽन्तरात्मा ॥ १०॥

रङ्गः अन्तरात्मा

प्रेक्षकाणीन्द्रियाणि ॥ ११॥

प्रेक्षकाणि इन्द्रियाणि

धीवशात्सत्त्वसिद्धिः ॥ १२॥

धी वशात् सत्त्व सिद्धिः

सिद्धः स्वतन्त्रभावः ॥ १३॥

सिद्धः स्वतन्त्र भावः

यथातत्र तथान्यत्र ॥ १४॥

यथा तत्र तथा अन्यत्र

बीजावधानम् ॥ १५॥

बीज अवधानम्

आसनस्थो सुखं ह्रदे निमज्जति ॥ १६॥

आसनस्थः सुखम् ह्रदे निमज्जति

स्वमात्रनिर्माणमापादयति ॥ १७॥

स्व मात्रा निर्माणम् आपादयति

विद्याविनाशे जन्मविनाशः ॥ १८॥

विद्या विनशे जन्म विनाशः

कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ १९॥

कवर्गादिषु माहेश्वरी आद्याः पशु मातरः

त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २०॥

त्रिषु चतुर्थम् तैलवत् आसेच्यम्

मग्नः स्वचित्तेन प्रविशेत् ॥ २१॥

मग्नः स्वचित्तेन प्रविशेत्

प्राणसमाचारे समदर्शनम् ॥ २२॥

प्राण समाचरे सम दर्शनम्

मध्येऽवरः प्रसवः ॥ २३॥

मध्ये अवरः प्रसवः

मात्रावप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम् ॥ २४॥

मात्रा स्वप्रत्यय सन्धाने नष्टस्य पुनः उत्थानम्

शिवतुल्यो जायते ॥ २५॥

शिव तुल्यः जायते

हरीरवृत्तिर्व्रतम् ॥ २६॥

शरीर वृत्तिः व्रतम्

कथा जपः ॥ २७॥

कथा जपः

दानमात्मज्ञानम् ॥ २८॥

दानम् आत्मज्ञानम्

योऽविपस्थो ज्ञाहेतुश्च ॥ २९॥

यो अविपस्थः ज्ञा हेतुः च

स्वशक्तिप्रचयो विश्वम् ॥ ३०॥

स्व शक्ति प्रचयः विश्वम्

स्थितिलयौ ॥ ३१॥

स्थिति लयौ

तत्प्रवृत्तावप्यनिरासः संवेतृभावात् ॥ ३२॥

तत् प्रवृत्तौ अपि अनिरासः संवेतृ भावात्

सुखासुखयोर्बहिर्मननम् ॥ ३३॥

सुख असुखयोः बहिः मननम्

तद्विमुक्तस्तु केवली ॥ ३४॥

तत् विमुक्तः तु केवली

मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५॥

मोह प्रतिसंहतः तु कर्मात्मा

भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६॥

भेद तिरस्कारे सर्ग अन्तर कर्मत्वम्

करणशक्तिः स्वतोऽनुभवात् ॥ ३७॥

करणशक्तिः स्वतः अनुभवात्

त्रिपदाद्यनुप्राणनम् ॥ ३८॥

त्रिपद आदि अनुप्राणनम्

चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९॥

चित्तस्थिति वत् शरीर करण बाह्येषु

अभिलाषद्बहिर्गतिः संवाह्यस्य ॥ ४०॥

अभिलाषात् बहिः गतिः संवाह्यस्य

तदारूढप्रमितेस्तत्क्षयाज्जीवसङ्क्षयः ॥ ४१॥

तत् आरूढ प्रमितेः तत् क्षयात् जीव सङ्क्षयः

भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ ४२॥

भूत कञ्चुकी तदा विमुक्तः भूयः पति समः परः

नैसर्गिकः प्राणसम्बन्धः ॥ ४३॥

नैसर्गिकः प्राण सम्बन्धः

नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्णेषु ॥ ४४॥

नासिका अन्तर्मध्य संयमात् किमत्र सव्य अपसव्य सौषुम्णेषु

भूयः स्यात्प्रतिमीलनम् ॥ ४५॥

भूयः स्यात् प्रतिमीलनम्

॥ इति ॥

Post a Comment

0 Comments