श्रीगणेशाय नमः ॥
असित उवाच ।
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ १॥
मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोस्तु ते ॥ २॥
कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोस्तु ते ॥ ३॥
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४॥
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्परः ।
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ॥ ५॥
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत्साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ ६॥
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥ ७॥
स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेद्धनाढ्यो दुःखी च मूको भवति पण्डितः ॥ ८॥
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥ ९॥
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥ १०॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असितकृतशिवस्तोत्रं सम्पूर्णम् ॥
0 Comments