हिमालय उवाच ।
त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ।
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकः ॥ १॥
त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः ।
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥ २॥
नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३॥
सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् ।
सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥ ४॥
वायुस्त्वं वरुणस्त्वं च विद्वांश्च विदुषां गुरुः ।
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ॥ ५॥
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ।
विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ॥ ६॥
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ।
वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् ॥ ७॥
अहो सरस्वतीबीजं कस्त्वा स्तोतुमिहेश्वरः ।
इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ॥ ८॥
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ।
स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ९॥
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ।
अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ॥ १०॥
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम् ।
चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ११॥
राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः ।
कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ॥ १२॥
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ।
रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ॥ १३॥
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ १४॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम् ॥
0 Comments