बाणलिङ्गकवचम्

अस्य बाणलिङ्ग कवचस्य संहारभैरवऋषिर्गायत्रीच्छन्दः,

हौं बीजं, हूं शक्तिः, नमः कीलकं, श्रीबाणलिङ्ग सदाशिवो देवता,

ममाभीष्ट सिद्ध्यर्थं जपे विनियोगः ॥

ॐ कारो मे शिरः पातु नमः पातु ललाटकम् ।

शिवस्य कण्ठदेशं मे वक्षोदेशं षडक्षरम् ॥ १॥

बाणेश्वरः कटीं पातु द्वावूरू चन्द्रशेखरः ।

पादौ विश्वेश्वरः साक्षात् सर्व्वाङ्गं लिङ्गरूपधृक् ॥ २॥

इतिदं कवचं पूर्व्वं बाणलिङ्गस्य कान्ते

पठति यदि मनुष्यः प्राञ्जलिः शुद्धचित्तः ।

व्रजति शिवसमीपं रोगोशोकप्रमुक्तो

बहुधनसुखभोगी बाणलिङ्ग प्रसादतः ॥ ३॥

इति बाणलिङ्ग कवचं समाप्तम् ॥

Post a Comment

0 Comments