अथ आर्तिहरस्तोत्रम्

श्री शम्भो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्।

सन्तापमपाकुरुमे मन्तापरमेश तव दयायाः स्याम् ॥ १॥

अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंहसां खलु मे।

तव सन्नवसीदामि यदन्तकशासन नतत्तवानुगुणम् ॥ २॥

देव स्मरन्ति तव येतेषां स्मरतोऽपि नार्तिरितिकीर्तिम्।

कलयसि शिव पाहीतिक्रन्दन् सीदाम्यहं किमुचितमिदम् ॥ ३॥

आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति।

आर्तिषुमज्जयसे मां किम्ब्रूयां तवकृपैकपात्रमहम् ॥ ४॥

मन्दाग्र्णीरहं तव मयि करुणां घटयितुं विबोनालम्।

आकृष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिति ॥ ५॥

त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोहमीश्वरत्वमसि।

त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया नत्वाम् ॥ ६॥

आश्रितमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे।

श्रितगोप्ता दीनार्तिहृदिति खलु शंसन्ति जगति सन्तस्त्वाम् ॥ ७॥

प्रहराहरेतिवादी फणितमदाख्य इति पालितो भवता।

शिव पाहीति वदोऽहं शृतो न किं क्वां कथं न पाल्यस्ते ॥ ८॥

शरणं व्रज शिवमार्तीस्सतव हरेदिति सतां गिराऽहम् त्वाम्।

शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम् ॥ ९॥

इति श्री श्रीधरवेङ्कटेशार्यकृतिषु आर्तिहरस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments