जम्बुनाताष्टकम्

। श्री श्रीधरवेङ्कटेशार्येण विरचितम् ।

कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः ।

जयति ज्ञानमहीन्दुर्जन्ममृतिक्लान्तिहरदयाबिन्दुः ॥ १॥

श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः ।

अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥

कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः ।

श्रीमान् दमितत्रिपुरः श्रितजम्भूपरिसरश्चकास्तु पुरः ॥ ३॥

शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः ।

करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥

गृहिणीकृतवैकुण्ठं गेहितजम्भूमहीरुडुपकण्ठम् ।

दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥

कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।

शक्रादिश्रितचरणं शरणं जम्भूद्रुमान्तिकाभरणम् ॥ ६॥

करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये ।

जगदानन्दधुनिधये जम्भूतरुमूलनिलयसन्निधये ॥ ७॥

कश्चन शशिचूढालं कण्ठेकालं दयौघमुत्कूलम् ।

श्रितजम्भूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥ ८॥

॥ जम्भुनाथाष्टकं सम्पूर्णम् ॥

Post a Comment

0 Comments